श्री मृतसंजीवनी स्तोत्र को मृतसंजीवनी कवच भी कहा जाता है यह भगवान शिव को समर्पित है। सनातन शास्त्रों के अनुसार, मृतसंजीवनी स्तोत्र का अर्थ होता है अकाल मृत्यु से उभारने वाला कवच। भगवान शिव के इस मंत्र के जाप से अकाल मृत्यु अथवा अनहोनी या बड़ी दुर्घटना को रोका जा सकता है। 

ऐसी मान्यता है कि इस महान स्त्रोत्र को महर्षि वशिष्ठ द्वारा लिखा गया है। कुछ लोगो का यह भी मानना है की ऋषि शुक्राचार्य ने गायत्री और महा मृत्युंजय मंत्रों द्वारा मृत संजीवनी स्तोत्र की रचना की थी। 30 श्लोकों से बना ये मंत्र कवच का कोई भी भक्त नित्य पाठ करता है तो उसको किसी भी तरह के कष्ट का सामना नहीं करना पड़ता। सावन के महीने में श्री मृत्युसंजीवनी स्तोत्र का पाठ करना बेहद शुभ और फलदायक माना जाता है। 


Shree Mritsanjivani Stotram


श्री मृतसंजीवनी स्तोत्रम् || Shree Mritsanjivani Stotram 


एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् ।

मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥1॥


सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ।

महादेवस्य कवचं मृतसञ्जीवनामकम् ॥2॥


समाहितमना भूत्वा शृणुष्व कवचं शुभम् ।

शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥3॥


वराभयकरो यज्वा सर्वदेवनिषेवितः ।

मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥4॥


दधानः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।

सदाशिवोऽग्निरूपी मां आग्नेय्यां पातु सर्वदा ॥5॥


अष्टादशभुजोपेतो दण्डाभयकरो विभुः ।

यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥6॥


खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।

रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥7॥


पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।

वरूणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥8॥


गदाभयकरः प्राणनायकः सर्वदागतिः ।

वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥9॥


शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।

सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥10॥


शूलाभयकरः सर्वविद्यानामधिनायकः ।

ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥11॥


ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ।

शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥12॥


भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ।

भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥13॥


नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।

जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥14॥


मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ।

पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥15॥


पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।

नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥16॥


कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ।

गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥17॥


जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ।

पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥18॥


गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।

मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥19॥


सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।

एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥20॥


मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।

सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥21॥


यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ।

स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥22॥


हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।

आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥23॥


कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ।

अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥24॥


युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् ।

युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥25॥


न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।

विजयं लभते देवयुद्धमध्येपि सर्वदा ॥26॥


प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ।

अक्षय्यं लभते सौख्यमिहलोके परत्र च ॥27॥


सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ।

अजरामरणोभूत्वा सदा षोडशवार्षिकः ॥28॥


विचरत्यखिलान्लोकान्प्राप्य भोगांश्च दुर्लभान् ।

तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥29॥


मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥30॥


|| इति श्री मृत संजीवनी स्तोत्र || 


यह भी पढ़ें -