शिव बिल्वाष्टकम् में बेल पत्र के गुणों के साथ भगवान शिव का उसके प्रति प्रेम भी वर्णित किया गया है सावन मास में नियमित रूप से इस स्तोत्र पाठ करने से भगवान शंकर बेहद प्रसन्न होते है। 


बिल्वाष्टकम् || Bilvashtakam


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥1॥


त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैश्शुभैः ।

शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥2॥


अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥3॥


सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।

सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥4॥


दन्तिकोटिसहस्राणि वाजपेयशतानि च ।

कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥5॥


पार्वत्यास्स्वेदतोत्पन्नं महादेवस्य च प्रियं ।

बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥6॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥7॥


मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतश्शिवरूपाय एकबिल्वं शिवार्पणम् ॥8॥


बिल्वाष्टक मिदं पुण्यं यः पठेच्छिवसन्निधौ ।

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥9॥


|| इति श्री बिल्वाष्टकम् पूर्ण ||


Bilvashtakam


यह भी पढ़ें -

श्री अर्धनारीश्वर अष्टकम || शिव षडक्षर स्तोत्रम् || श्री नटराज स्तोत्र || श्री वैद्यनाथाष्टकम्